गुजरात् महाराष्ट्र हरियानराज्येषु अतिवृष्टिः।
मुम्बई> महाराष्ट्रं, गुजरात्, हरियानम् इत्यादिषु पश्चिमोत्तरराज्येषु अतिवृष्टिरनुवर्तते। मुम्बई, पूणै प्रान्तेषु रक्तजाग्रत्ता उद्घोषिता। नगरद्वयमपि जलनिमग्नं वर्तते। यातायातसुविधा बहुक्लेशपूर्णा अस्ति। रेल् यानसेवा स्थगिता।
गुजरातराज्ये अपि अतिवृष्टिदुष्प्रभावः कठिनतरः। सूरट्, कच् जाम्नगरप्रदेशेषु जलोपप्लवः अनुभूयते।