OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, August 14, 2025

 प्रधानमन्त्रिणः सूर्यघर्योजना अग्रे सरति॥

  राष्ट्रियकल्याणं पुरस्कृत्य प्रधानमन्त्रिणा प्रवर्तिता 'प्रधानमन्त्रिसूर्यघर्-मुक्तविद्युद्योजना' महता वेगेन देशेऽस्मिन् अग्रेसरतीति केन्द्रसर्वकारेण विज्ञापितम् ॥ अस्याः कारणेन गृहेषु सौरोर्ज्वयन्त्राणां संस्थापनद्वारा नागरिकाः प्रतिमासं त्रिशतमात्रकपर्यन्तं विद्युदूर्ज्वं निःशुल्कं प्राप्नुवन्ति ॥


  चतुर्विंशत्युत्तरद्विसहस्रतमस्य वर्षस्य फेब्रुवरीमासे प्रारब्धा भवति इयं योजना। द्विसहस्रषड्विंशति-सप्तविंशतितमवित्तीयवर्षाभ्यन्तरे राष्ट्रस्य कोटिपरिमितेषु गृहेषु सौरोर्ज्वप्रणाल्याः संस्थापनं कार्यमित्यस्ति योजनायाः मुख्यलक्ष्यम्॥ एतत्कार्यसिद्धये सर्वकारेण पञ्चसप्ततिसहस्रैकविंशतिकोटिरूप्यकाणां विशाला धनराशिरनुमोदिता ॥ गृहेषु एककिलो वाट्तः त्रिकिलो-वाट्क्षमतायुक्तानां यन्त्राणां संस्थापनाय त्रिंशत्सहस्ररूप्यकाणि यावद् अष्टसप्ततिसहस्ररूप्यकाणि अनुदानं प्रदीयते ॥

 अद्यतनवृत्तानुसारम् अष्टपञ्चाशल्लक्षाधिकेषु प्राप्तनिवेदनेषु षोडशलक्षपञ्चाशत्सहस्रगृहेषु सौरोर्ज्वसंस्थापनकार्यं पूर्तिमगमत् ॥ राज्येषु च महाराष्ट्रराज्यं (२,३४,७३६) गुर्जरप्रदेशः (२,२८,५०७) उत्तरप्रदेशश्च (१,२०,८६६) क्रमशः प्रथमद्वितीयतृतीयस्थानेषु विराजन्ते ॥


  अस्यां योजनायाम् अल्पवृद्धिना सह ऋणसौविध्यं विद्युद्वितरणसंस्थानानि (DISCOM) माध्यमेन सुलभा संस्थापनप्रक्रिया तथा नेट्-मीटरिङ्ग् (Net Metering) व्यवस्थेत्यादयोऽपि लाभाः सन्ति ॥ अधिकविवरणाय पञ्जीकरणाय च www.pmsuryaghar.gov.in इति सर्वकारीयं जालस्थानं नागरिका अवलोकयेयुः ॥

  विज्ञाः शास्त्रज्ञाश्चाभिप्रयन्ति यद् एतेन सौरोर्ज्वप्रसारेण न केवलं गृहस्थानां विद्युद्व्ययभारो लघूभविष्यति अपि तु पर्यावरणहानिकरस्य अङ्गाराम्लवायोः उत्सर्जनमपि नियन्त्रितं भविष्यति ॥