नरेन्द्रमोदी पुतिनं दूरवाण्या सम्भाषणमकरोत्।
![]() |
व्लादिमीर पुतिनः (वामे) नरेन्द्रमोदी च। |
नवदिल्ली> रूसराष्ट्रस्य राष्ट्रपतिना व्लादिमीर पुतिनेन सह भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दूरवाणीद्वारा सम्भाषणमकरोत्। गतदिने अलास्कायां सम्पन्नायाः ट्रम्प-पुतिनयोः शान्तिचर्चायाः अनन्तरमासीत् इदं सम्भाषणम्।
अलास्काचर्चामधिकृत्य स्वस्यावलोकनं पुतिनः मोदिनमवोचदिति प्रधानमन्त्रिणः कार्यालयेन निगदितम्। चर्चायाः नयतन्त्रस्य चाधारेण संघर्षः दूरीकरणीयः , शान्तिमवलम्ब्य चर्चा चालनीया इति भारतस्य अभिमतं मोदिवर्यः पुनरावर्तितम्।