दिल्यां 'दर्गा'याः भित्तिका सन्निपत्य ५ जनाः मृताः।
नवदिल्ली> मुगलचक्रवर्तिनः हूमयूणस्य शवकुटीरस्यसमीपं वर्तमानस्य दर्गामन्दिरस्य भित्तिका सन्निपत्य पञ्च जनाः मृत्युमुपगताः। तिस्रः महिलाः द्वौ पुरुषौ च मृताः।
शुक्रवासरे मध्याह्नानन्तरमासीत् दुर्घटना। प्रार्थनां कर्तुं दर्गामन्दिरं प्राप्तवन्तः एव दुरन्ताधीनाः जाताः। भञ्जितस्य मन्दिरस्य अवशिष्टेभ्यः उपदश जनाः क्षतैः आतुरालयं नीताः।