बिहारस्य संगृहीतमतदायकावलिः
अपनीतानां वृत्तान्ताः प्रकाशयितव्याः - सर्वोच्चन्यायालयः।
नवदिल्ली> तीव्रमतदायकावलीपरिष्करणस्य [SIR] अंशतया निर्वाचनायोगेन आगस्ट् प्रथमदिनाङ्के प्रसिद्धीकृतात् संगृहीतमतदायकावलेः निष्कासितानां ६५ लक्षं मतदायकानां वृत्तान्तान् प्रसिद्धीकर्तुं सर्वोच्चन्यायालयेन निर्दिष्टम्। निष्कासनस्य कारणमपि सूचितव्यम्।
अपसारितानां सूचनाः आगामिकुजवासरात्पूर्वं प्रकाशयितव्याः इति न्यायाधीशः सूर्यकान्तः, न्यायाधीशः जोय् मल्या बाग्चि इत्येतयोः नीतिपीठेन निर्दिष्टम्। प्रकरणमिदं आगामिशुक्रवासरं प्रति परिवर्तितम्।
यदि वृत्तान्ताः प्रसिद्धीक्रियन्ते तर्हि निर्वाचनायोगं विरुध्य प्रचारः समापयिष्यतीति न्याया. जोय् मल्या वर्येण सूचितम्।