'जि एस् टि' परिष्कारः आर्थिकाभिवृद्धये कारणं भविष्यति।
मुम्बई> प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वतन्त्रतादिने उद्घोषितः पण्यसेवाकरपरिष्कारः राष्ट्रस्य आर्थिकाभिवृद्धये हेतुः भविष्यतीति गवेषकाः। करपरिष्कारः २.४ कोटिरूप्यकाणाम् अधिकोपभोगं विधास्यतीति प्रतीक्षते।
दीपावलिमनुबन्ध्य करपरिष्करणं प्राबल्यं भविष्यतीति प्रधानमन्त्रिणा स्पष्टीकृतमासीत्। राष्ट्रे उत्सवकालः आरभ्यते इत्यतः उपभोगः वर्धिष्यते।