केरले अतितीव्रवृष्टिः।
कोच्ची> केरलस्य मध्योत्तरजनपदेषु दिनद्वयेन अतिवृष्टिः अनुवर्तते। बहवः प्रदेशाः जलनिमग्नाः जाताः।
वयनाट्, कण्णूर्, कासरगोड् जनपदेषु रविवासरे ओरञ्च् जागरूकतानिर्देशः कल्पितः। इतरेषु पीतजागरूकता विधत्ता। वयनाटे बाणासुरसागरसेतुः जलपूरितः इत्यनेन जलनिर्गमनमार्गाः उद्घाटिताः। एरणाकुलं जनपदे पेरियार् नद्यां जलवितानं उच्चमभवत्।