गासायुद्धनिरासः
ईजिप्त् -खत्तरराष्ट्रयोः नूतननिर्देशः हमासेन अङ्गीकृतः।
गासा सिटी> २२ मासाधिककालं यावत् इस्रयेलं प्रति अनुवर्तमानस्य युद्धस्य निराकरणाय मध्यस्थयोः ईजिप्त् -खत्तरराष्ट्रयोः नूतननिर्देशः अङ्गीकृतः इति हमासेन निगदितम्। ६० दिनात्मकानां भुशुण्डिप्रयोगनिरासः, वारद्वयेन बन्धितानां मुक्तिः इत्येव नूतनः निर्देशः। शाश्वताय युद्धनिरासाय चर्चां कर्तुमारभ्यमाणः निर्देश इति वार्ताप्रतिनिधिः 'ए एफ् पि' इत्यनेन निगदितम्।
किन्तु अस्मिन् निर्देशं प्रति इस्रयेलस्य प्रतिस्पन्दः न बहिरागतः। हमासेन बन्धितेषु २५१ जनेषु कतिपयाः पूर्वं विमोचिताः। ४९ जनाः इदानीं हमासस्य सकाशे सन्ति। एषु २७ जनाः हताः इति इस्रयेलेन कथ्यते।