OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 14, 2018

वयोधिकानां राक्षाकर्तृणां  परित्यागः - षण्मासं कारावासः।
     नवदिल्ली > वयोधिकाः राक्षाकर्तारः अपत्यैः रक्षितव्याः। नो चेत् अपत्यानि षण्मासं कारावास दण्डार्हानि भवेयुः इति नियमभेदं कर्तुं केन्द्रसर्वकारेण निश्चितम्। इदानीं दण्डनकालः मासत्रयं वर्तते। किन्तु वृद्धाः पितरः  अपत्यैः बहिष्कृताः इति वार्ताः राष्ट्रस्य विविध भागेभ्यः प्रतिदिनम्  अधिकतया आगच्छन्ति। अनेन कारणेन एव अयं निश्चयः इति सामूह्यनीति-मन्त्रालयेन उक्तम्। नूतननियमस्य परिधौ अधिके बान्धवाः अन्तर्भविष्यन्ति। पोष्यपुत्रकः / पुत्रिका, द्वितीये विवाहे जाताः , पुत्रवधू , पुत्र्याः पतिः च वृद्धानां संरक्षणस्य उत्तरदायिनः भवन्ति।  पौत्रः पौत्री वा भवतु अल्पवयस्काः  चेदपि वृद्धपीडनं क्रियते चेत् दण्डार्हाः भविष्यन्ति।