OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 10, 2018

प्रधानमन्त्रिणं प्रतीक्ष्य स्थातुं न शक्यते। अतिवेग मार्गः विलम्बं विना उद्घाटनीयः - सर्वोच्चन्यायालयः। 
     नवदिल्ली> दिल्लीनगरस्य अतिरूक्षवाहनसम्मर्दं मलिनीकरण समस्यां च परिहर्तुम् उद्दिश्य निर्मितस्य अतिवेगमार्गस्य उद्घाटनं विलम्बायते इत्यस्य  विप्रतिपत्तिं विज्ञापयन् सर्वोच्यन्यायालयः ।  उद्घाटनाय प्रधानमन्त्रिणं प्रतिपाल्य किमर्थं स्थास्यते इति न्यायालयः अपृच्छत्। जूण् मासस्य प्रथमदिनाङ्के जनेभ्यः मार्गः उद्घाट्य दातव्यः इति न्यायालयः निरदिशत्। 
    राष्ट्रियमार्ग आयोगस्य अधीनतायां निर्मितस्य 'ईस्टेण् पेरिफरल् एक्स्प्रस् वे' इत्यस्य उद्घाटनानुबन्धतया एव उच्चन्यायालयस्य आदेशः। न्यायाधीशौ मदन् बि लोकूर् दीपक् गुप्तः च पीठे उपस्थितौ अस्ताम् I