OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 5, 2018

अन्ते मुम्बै दलेन विजयपथं प्राप्तम् 
   मोहाली > पराजयपरम्परायाः अन्ते मुम्बै दलाय समाश्वासविजयः। विवो ऐ पि एल् २०१८ सपर्यायाम् ह्यः सम्पन्नक्रीडायां मुम्बै दलेन पञ्जाबदलम् पराजितम्। क्रुनालपाण्ड्यस्य अतिवेगक्रीडनं मुम्बै दलाय सहायकम् अभवत्। सः १२ कन्दुकेभ्यः ३१ धावनाङ्कान् सम्पाद्य नायकेन रोहित् शर्मणा सह क्रीडान्तं यावत् स्थितः। मुम्बै दलाय सूर्यकुमारयादवः ५७ धावनाङ्कान् समपादयत्। अनेन विजयेन ऐ पि एल् २०१८ सपर्यायां मुम्बै दलस्य विजयप्रतीक्षाः उत्तेजिताः। अङ्कस्थितिः - किङ्स् इलवन् पञ्जाब् - १७४/६ मुम्बै इन्ड्यन्स् -१७६/४(१९).