OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 6, 2018

स्थगितानां न्याय-व्यवहाराणां निर्णयाय प्रभातपर्यन्तं न्यायलयः ॥ 
          मुम्बै> स्थगितानां न्याय-व्यवहाराणां निर्णयाय प्रभातपर्यन्तं न्यायलये उषित्वा  न्यायाधीशः इतिहासं रचितवान्। मुम्बै उच्चन्यायालयस्य न्यायाधीशः एस् जे कताव् ला वर्यः एव नूतनाम्  इमां सरणिं समारब्धवान्। मेय् मासस्य पञ्चमदिनाङ्कात् आरभ्य न्यायालयस्य विरामकालः भविष्यति इत्यनेन विधिनिर्णयाय यामान्तं यावत् न्यायाधीशः नीतिपीठे उपविष्टवान् आसीत्।  एवं १३५ न्यायव्यवहारेषु निर्णयं स्वीकृतवान्। विगतैकसप्ताहं यावत् अर्धरात्रपर्यन्तं न्यायावाद-विधिप्रस्तावौ अनुवर्तितौ च आस्ताम्।  एषु  व्यवहारेषु ७० सङ्ख्यामिताः  व्यवहाराः अधिकप्राधान्यं आवहन्तः सन्ति।