OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 30, 2018

सि बि एस् इ परीक्षायां श्रीलक्ष्मी  प्रथमस्थाने।
       कोच्ची> सम्प्रतिवार्तयाः छात्रवार्तावतारिका श्रीलक्ष्मी जि दशमकक्ष्यायाः  परीक्षायाम्  प्रथमस्थानं  (अाभारतस्तरे ) प्राप्तवती। सि बि एस् इ बोर्ड् परीक्षायां ४९९ अंकाः तया प्राप्ताः अंगलेये पूर्णाङ्कात् एकः अंकः एव न्यूनः अभवत्। कोच्ची भवन्स् विद्यालयस्य छात्रा भवत्येषा।  क्रमानुगताध्ययनमेव  विजयस्याधारमन्त्रमिति वदति पिता गोपिनाथः। विषयानुसाारम्  उत्तराणि निर्मीय अध्येतुम् एषा प्रयत्नं  कृतवती। विगतानां प्रश्नपत्राणां उत्तरलेखनाभ्यासे एषा सेल्लासं प्रयत्नं कृतवती। कोच्ची देशस्थे  वेण्णलप्रदेशे वसति एषा। अस्याः पिता गोपिनाथः केरलस्य उच्च न्यायालये सर्वकारीय ज्येष्ठन्यायवादी भवति। माता रमा सर्वकारीय कलालये पशु वैज्ञानिक विभागे वरिष्टाध्यापिका च भवति। ज्येष्टसोदरः तु स्नातकोत्तर बिरुदाय अध्ययनं  करोति। 
       सम्प्रतिवार्तायाः छात्र-वार्तावतारकेभ्यः संस्कृत-वार्ताप्रस्तुतीकरणाय जनं दृश्यमाध्यमेन चतस्रः चिताः अासन्। तेषु एका वार्तावतारिका अासीत् एषा श्रीलक्ष्मी।