OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 16, 2018

विद्युत् चतुश्चक्रिकाणां द्विलक्षं तथा विद्युत् द्विचक्रिकाणां च कृते त्रिंशत् सहस्ररुप्यकाणां च न्यूनत्वम्।
डॉ अभिलाष् जे
     नवदेहली - राष्ट्रे पेट्रोल् टीसल् यानानि सम्पूर्णतया निष्कास्य परिस्थिति मित्र यानानां व्यापनाय केन्द्रसर्वकारेण ९४०० कोटि रूप्यकाणां योजना आविष्क्रियते। एतेन वायुमलिनीकरणं न्यूनीकर्तुं शक्यते। अतः अस्मिन् क्षेत्रे निक्षेपं प्रोत्साहयितुं बहूनि सौविध्यानि दातुं सर्वकारेण आलोच्यते। पुरातनानां यानानां   नाशं कृत्वा नूतनानां विद्युत् यानानां स्वीकरणाय अधिकाधिकं सार्धद्विलक्षात्मकं रूप्यकाणि न्यूनीकृत्य सर्वकारः दास्यति।
     वेगवतां सार्धैकलक्षोपरि मूल्यवतां द्विचक्रयानानां कृते त्रिंशत् सहस्ररूप्यकाणि तथा एकलक्षात्मकरूप्यकाणां द्विचक्रयानानां कृते विंशतिसहस्ररुप्यकाणां पञ्चलक्षात्मक त्रिचक्रिकाणां पञ्चसप्तति सहस्ररुप्यकाणां पञ्चदशलक्षात्मकस्य चतुस्चक्रिकाणां कृते द्विलक्षपर्यन्तं, दशलक्षवतां लघु व्यवसायिक यानानां कृते सार्धद्विलक्षं त्रिकोटि रूप्यकवतां बस्यानानां कृते पञ्चाशत् लक्षं च सर्वकारेण न्यूनीकरिष्यते। परिष्कारोयं निबन्धनाधिष्ठतं स्यात्।
    आगामिनि पञ्चवर्षेषु एतादृशपरिवर्तनाय १५०० कोट्रूप्यकाणां व्ययः भविष्यति। विद्युत् चार्जिङ् केन्द्राणि स्थापितुं १००० कोटि रूप्यकाणां व्ययः भविष्यति। प्रायः पञ्चलक्षयानानि एवं परिवर्तयन्ति। तेषु भूरिशः अशीतिप्रतिशतं द्विचक्र त्रिचक्रयानानि स्युः। एतादृशपरिवर्तनेन यानक्षेत्रे बहु बृहद् परिवर्तनं भविष्यति।