OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 1, 2018

अफ्गानिस्थाने  त्रिषु स्थानेषु  आत्मघात्याक्रमणं - ४१ मरणानि। 
         काबूल् > अफ्गानिस्थानस्य राजधान्यां काबूल् नगरे तथा काण्डहारे च सम्पन्नेषु त्रिषु आत्मघात्याक्रमणेषु एकादश शिशवः अष्ट माध्यमप्रवर्तकाश्च अभिव्याप्य एकचत्वारिंशत् जनाः हताः। उपषष्ठिजनाः व्रणिताश्च। 
   काबूल् नगरे प्रवृत्तयोः आक्रमणयोः उत्तदायित्वं विश्वभीकरसंस्थया इस्लामिक् स्टेट् नामिकया स्वीकृतम्।  प्रथममाक्रमणम् आवेदयितुं  प्राप्तान् माध्यमप्रवर्तकान् लक्ष्यीकृत्य आसीत् द्वितीयमाक्रमणम्। अन्ताराष्ट्र वार्ताकरसंस्थायाः [ए एफ् पि] सुप्रसिद्धः वार्ताहरः 'षा मरायि' नामकः मृतेषु अन्तर्भवति।