OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 21, 2018

ज्वरबाधया दश जनाः मृताः, 'निप्पा वैरस्' इति निर्णीतम्। 
     कोष़िक्कोड् > केरले कोष़िक्कोड् जनपदस्थे पेराम्प्र प्रदेशे सांक्रमिकज्वरबाधया दश जनाः मृताः,  एकः आतुरालये चिकित्साविधेयः अस्ति। निप्पा वैरस् नामक सूक्ष्माणुः एव रोगकारकः इति स्वास्थ्यविभागेन निर्णीतम्। 
     मणिप्पालस्थे 'वैरोलजि रिसर्च् सेन्टर्' संस्थायाः विदग्धसंघः ज्वरबाधितप्रदेशं प्राप्य संकलितानाम् आदर्शरक्तानां सूक्ष्मशोधनेनैव निप्पा वैरस् सूक्ष्माणुरिति निर्णीतम्। ज्वरेण मृतस्य सालिह् नामकस्य गृहे संरक्षिताः केचन शशकाः शशकाः समीपकाले युगपद् मृत्युमुपगताः आसन्। अतः मृगेभ्यः वा रोगव्यापनमभवदिति सन्देहात् पालकमृगाणां रक्तशोधना अपि क्रियमाणा अस्ति।