OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 19, 2018

तैलस्य मूल्यम् न्यूनीकरणीयम् - सौदिं प्रति भारतम्।
       नवदिल्ली> तैलेन्धनस्य निरन्तरमूल्यवर्धनं नियन्त्रितुं प्रक्रमः स्वीकरणीयः इति केन्द्र पेट्रोलियं मन्त्री धर्मेन्द्रप्रधानः सौदीअरेब्यराष्ट्रं प्रति अवदत्। तैलस्य मूल्यवर्धनं भारतस्य सम्पद् व्यवस्थायां प्रतिकूलताया बाधते इति सौदी अरेब्याराष्ट्रस्य व्यवसाय विभागमन्त्रिणा साकं कृते दूरवाणीभाषणे सूचितम्। प्रेट्रोल् तैलस्य मूल्यं बारल् मितस्य ८० डोलर् समागच्छति इत्यनेन कारणेन  आसीत् दूरवाणी भाषणम् । उभययोः राष्ट्रयोः साह्यकरणे तथा तैल विपण्यः इदानीन्तन अवस्थाम् अधिकृत्य च आसीत् भाषणम् इति औद्योगिकावेदनम्। उत्पादकैः सह भाषणं कृत्वा समस्यापरिहाराय क्रियान्वयः भविष्यति इति सौदीराष्ट्रेण उक्तम्॥