OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 18, 2018

सर्वकारोद्योगिनां जैविकविशेषताम् अनुमीय उपस्थित्यालेखनम्।
      तिरुवनन्तपुरम्> केरलराज्ये सर्वकारोद्योगिनां  कृते उपस्थितिमुद्रणाय विशेषविधानं सज्जीक्रियते इति केरलस्य मुख्यमन्त्री पिणरायिविजयः अवदत्I ओक्टोबर् मासादारभ्य नूतनसंविधानस्य निवेशः भविष्यति। सर्वकारीयसेवनानि शक्तीकर्तुं सर्वकारेण प्रामुख्यं कल्पते। एवं चेत् प्रातः आगत्य हस्ताक्षरंकृत्वा अन्यत्र गतवतां बाधा भविष्यति। जनानां सौविध्यमेव उद्योगिनां लक्ष्यं भवितव्यम् इत्यपि तेनोक्तम्।