OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 25, 2018

एकस्मिन् वर्षे एकं निर्वाचनम् - निर्वाचनायोगः।
          नवदिल्ली>  एकं राष्ट्रं एकं निर्वाचनम् इति प्रधानमन्त्रिणः नरेन्द्रमोदिनः आशयस्य  स्थाने  एकस्मिन् संवत्सरे एकं निर्वाचनम् इति आशयं प्रकाशनाय  निर्वाचनायोगः आलोचयति इति इन्ट्यन् एक्स्प्रस् पत्रिका आवेदयति। लोकसभा निर्वाचनेन सह राज्यनियमसभानिर्वाचनं संबन्ध्य नियमायोगस्य लेखस्य प्रत्युतरवत् भवति निर्वाचनायोगस्य नूतनाशयस्य प्रकाशनम्। निर्वाचनं युगपत् कर्तुं पञ्च शासन-संविधानसमस्याः तथा १४ सामूहिक राजनैतिकसमस्याः आर्थिकसमस्याः च सन्ति। विषयेऽस्मिन् निर्वाचनायोगस्य अभिमतानि च ज्ञातुम् आसीत् नियमायोगस्य पत्रम्। नियम-साम्पतिक-समस्यानां पारंगन्तुं शक्यते चेत् एकस्मिन् काले निर्वाचनं कर्तुं निर्वाचनायोगस्य सिद्धता अपि प्रकाशिता अस्ति।