OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 24, 2018

निप्प-सूक्ष्माणुसङ्क्रमणं पुनरपि।
     कोष़िकोट् (केरळम्)> कोष़िकोट् जनपदे निप्प सूक्ष्माणु सङ्क्रमणेन अनुवैद्यविद्यार्थिनी अपि चिकित्सायां वर्तते। १६० आदर्शशेणितेभ्यः शोधनायां एषा अपि रुग्णा इति निर्णीता। एवं १४ जनाः निप्प अणु सङ्क्रमणेन चिकित्सालये वर्तन्ते। दिनानि यावत् चिकित्सायां आसीनः पेराम्प्र देशीयः मूस नामकः अद्य प्रातः मृतः। मेय् मासस्य ३१ दिनाङ्कपर्यन्तं जनपदस्थ सार्वजनिक-कार्यक्रमान् स्थगयितुं जनपदाधिकारी यु वि जोसः निर्देशमदात्। अणुसङ्क्रमणानन्तरं दिनानि गतानि चेदपि रोगस्य प्रभवस्थानं कुत्र इति अवगन्तुं न शक्यते। अतः मेलनादि कर्यक्रमाः मा सन्तु इति रोगनिर्व्यापनमुद्धिश्य निर्दिष्टम्। जनपदेषु सन्दर्शनाय बाधा नास्ति चेदपि सन्दर्शने स्वयमेव नियन्त्रणं शोभनम् इति यु वि जोसः अवदत्।