OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 13, 2018

नेपालदेशेन भारतं विरुद्ध्य उपयोजियितुम् अनुज्ञा न दीयते- ओली 
    काठ्मण्डुः> भारतस्य अभिलाषान् प्रति अनुभावपूर्णतया तिष्ठति नेपालः इति नेपालस्य प्रधानमन्त्री के पि शर्म ओली अवदत्। नेपालस्य प्रदेशाः भारतविरुद्धप्रवर्तनाय कदापि न दीयते  इति शर्मा  ओली नरेन्द्र मोदिने वाक् दत्तवान्। भारतविदेशकार्य सचिवः विजय् गोखले एवम् आवेदितवान्। भारतस्य प्रधानमन्त्रिणः दिनद्वयात्मकनेपालसन्दर्शनम् अधिकृत्य पत्र-दृश्यमाध्यमान् प्रति भाषमाणः आसीत् सः। ओलीमहोदयस्य वाक् अतिप्राधान्यम् आवहति। उभययोः राष्ट्रयोः प्रधानमन्त्रिणोः चर्चायां भारतस्य तृप्तिः अस्ति इत्यपि सः अवदत्।
    भारतेन सह 1850 किलोमीट्टर् दूरं सीमां पालयति नेपालः। सदा उद्घाटिता सीमा इत्यनेन द्वयोः राष्ट्रयोः नयतन्त्रबन्धस्य शक्तीकरणे सीम्नः अद्वितीयं स्थानमस्ति इति संयुक्तवार्तामेलने मोदिना उक्तम्।