OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 23, 2018

कर्णाटकराज्ये  - मुख्यमन्त्र्युपमुख्यमन्त्रिपदयोः अद्य सत्यवाचनम्
    बङ्गलूरु> राजनैतिकनटनकथायाः अन्ते मुख्यमन्त्रिपदे एच् डि कुमारस्वामी उपमुख्यमन्त्रिपदे जि परमेश्वरः च अद्य सत्यवाचनं करिष्यतः। 'विधानसौधं' नाम मन्दरे आयोजितायां वेदिकायां सार्धचतुर्वादने एव समारोहः भविष्यति। मन्त्रिणां विभागेषु कोण्ग्रस् जे डि एस् दलयोः मध्ये निर्णयः स्वीकृतः चेदपि तेषां सत्यापानम् अद्य न भविष्यति। कोण्ग्रस् दलनेता के आर् रमेश्कुमारः नियमसभाध्यक्षः भविष्यति। ३४ अङ्गयुक्ता मन्त्रिसभा भविष्यति कर्णटकसर्वकारे। कोण्ग्रस् दलात् २२ अङ्गाः सभायां भविष्यन्ति। जनता दलात् मुख्यमन्त्रिणा सह एकादशसभांगाः मन्त्रिसभायां भविष्यति। कोणग्रस् दलस्य राज्याध्यक्षः जि परमेश्वरः एव  उपमुख्यमन्त्रिपदमरोहति।