OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 1, 2018

इन्धनमूल्यम्  अधिकं मास्तु - केन्द्रनिर्देशः 
नवदिल्ली > कर्णाटकस्य नियमसभा-निर्वाचनभावनया इन्धनमूल्यवर्धनं केन्द्रसर्वकारेण निवारितम् इति आवेदनम्। विश्वविपण्याः मूल्यव्यत्ययानुसारं प्रतिदिनमूल्यनिर्णयम् निवारितम् इति मन्यते। लोकेसर्वत्र तैलेन्धनमूल्यम् वर्धितम् तथापि भारते न वर्धितम्। एक सप्ताहं यावत् मूल्यं निश्चलं भवति। मूल्यवर्धनं मास्तु इति सर्वकारेण तैलसंस्थाः निर्दिष्टाः इति भवति आवेदनम्। कर्णाटकनियमसभा निर्वाचने तैलेन्धनस्य मूल्यवर्धम्  प्रहराय भवति इति मत्वा एव अयं निर्देशः।    एप्रिल् मासस्य चतुर्विंशति दिनाङ्के एव अन्तिमतया मूल्यवर्धनमभवत्। मेय् मासस्य द्वादश दिनाङ्के भवति कर्णाटकस्य निर्वाचनम्।