OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 29, 2018

कृष्णद्वीपाय देशीयसौरभ्यपूरितानि नामानि
-लेफ्टनन्ट्. लिषा सी.आर्
    नवदिल्ली> भारतस्य स्वातन्त्र्यसमरचरित्रे अविस्मरणीयपदे स्थितस्य कृष्णद्वीपसमूहस्य नामानि एव केन्द्रसर्वकारेण विपरिणम्यन्ते। स्वातन्त्रान्दोलनस्य स्मृतिपूरितानि नामानि दीयन्ते। हाव्लोक् द्वीपस्य नाम 'स्वराज्' इति च परिवर्त्यत्यते। नील् द्वीपः 'षहीद्'(बलिदानि), रोस् द्वीपः'सुभाष् चन्द्र बोस् इति च परिवर्त्येयेते। दिसम्बर् मासस्य त्रिशत् दिनाङ्के प्रधानमन्त्रिरिणः नरेन्द्रमोदिनः कृष्णद्वीपस्य राजधानी पोर्ट्ब्लयर् सन्दर्शनसमये नवीननामानि दास्यन्ति। नेताजिवर्यस्य द्वीपसन्दर्शनस्य ७५ तमे वार्षिकोत्सवसमये एव मोदिनः सन्दर्शनम्। 1943 दिसम्बर् मासे एव नेताजी प्राचीन जिं खान क्रीडाक्षेत्रे राष्ट्रियद्वजारोहणं कृतम्। अस्मिन्नवसरे अन्टमान् द्वीपसमूहः स्वातन्त्रतां प्राप्तवान् इति च तेन महोदयेन प्रख्यापितः। तस्मिन्नवसरे नेताजिवर्येण  षगीद् , स्वराज् इति द्वयोः द्वीपयोः नामकरणं कृतम् आसीत्। पशिचिमबंगस्य भा.ज.पा उपाध्यक्षः चन्द्रकुमारबोसः  पुनर्नामकरण-विषयमधिकृत्य प्रधानमन्त्रिणे  पत्रं प्रेषितवानासीत् ।