OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 2, 2018

यू एस् राष्ट्रस्य भूतपूर्वपतिः जोर्ज् बुष् वरिष्ठः दिवंगतः। 
    वाषिङ्टण्  >  अमेरिक्कायाः भूतपूर्वः राष्ट्रपतिः जोर्ज् एछ् डब्ल्यू बुष् [९४] दिवं गतः। शुक्रवासरे रात्रौ  हूस्टण्स्थस्थे स्वभवने आसीत् तस्यान्त्यम्। 
    १९८९ संवत्सरादारभ्य १९९३ तमं संवत्सरं यावत् जोर्ज् हेर्बर्ट् वोक्कर् बुष् इत्याख्यः जोर्ज् बुष् अमेरिक्कां राष्ट्रपतिरूपेण नीतवान्।  रिप्पब्लिक्कन् दलस्य नेता सः राष्ट्रस्य ४१ तमः राष्ट्रपतिः आसीत्। सोवियट् यूणनियन् राष्ट्रवृन्दस्य विदीर्णनं, इराखराष्ट्रस्य कुवैट् राष्ट्रं प्रति अधिनिवेशः, सद्दाम हुसैनं प्रति कृतः युद्धः , बर्लिन भित्तिकायाः उच्छेदनमित्यादयः घटना जोर्ज् बुष् वरिष्ठस्य शासनकाले एव अभवन्। ४४ तम राष्ट्रपतित्वेन तस्य पुत्रः जोर्ज् बुष् कनिष्ठः शासनमकरोत्।