OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, December 7, 2018

वायुप्रदूषणेन २०१७ तमे भारते १२.४ लक्षं जनाः मारिताः।  
वायुप्रदूषिता दिल्ली
    नवदिल्ली> वायुप्रदूषणानुबन्धरोगेण २०१७ तमे संवत्सरे भारते १२.४ लक्षं जनाः मारिताः इति अध्ययनावेदनम्। लान्सेट् प्लानटरि हेल्त् जेर्णल् इति पत्रिकायां प्रकाशिते अध्ययनावेदने एव एवं व्यक्ततया लिखितम्।  १०१७ भारतेषु आपन्ने मृत्युषु अष्टेषु एकः वायु प्रदूषणस्य कारणेनेव भवति इति आवेदने व्यक्तं कृतम्। धूमपानेन जातात् रोगदपि अधिकतया वायुप्रदूषणेन भविष्यति इति गणना सूचयति। आवेदनानुसारं राष्ट्रेषु अत्यन्तप्रदूषितेषु राज्येषु दिल्ली एव प्रथम स्थाने तिष्टतिI उत्तरप्रदेशः हरियाणा च द्वितीय तृतीय स्थानयोः तिष्टतः।
        वायुप्रदूषणोन २०१७ तमे उत्तरप्रदेशे २,६०,०२८ जनाः मृताः महाराष्ट्रे १,०८,०३८. बिहारे ९६९६७ जनाः मृताः । ४. ८ लक्षं जनाः गृहादुत्पन्ना प्रदूषणेन ६.७ लक्षं जनाः बाह्यप्रदेशस्य वायु श्वसनेन चमृताः इति च आवेदने स्पष्टीकृतम्।