OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 2, 2018

हिमालये भूकम्पः भविष्यतीति अध्ययनफलम्।
      नवदिल्ली> हिमालयप्रदेशेषु शक्तयारीत्या भूकम्पः भविष्यति इति विशेषाध्ययनस्य  फलम्। रिक्टर् मापिन्यां ८.५ अथवा  इतोप्यधिकं वा शक्तः भूकम्पः भविष्यति  इति वैज्ञानिकाः वदन्ति। नेपाल स्थ मोहनखोल, चोर् गालिय प्रदेशयोः कृतानुसन्धानस्य आवेदनमेव  इदम्। अनुसन्धानानुसारम् उत्तराघण्डादारभ्य पश्चिम नेपाल पर्यन्तेषु प्रदेशेषु भूकम्पस्य अधिकसाध्यता वर्तते। बंगलूरु जवहर् लाल् सेन्टर् फोर् अड्वास्ड् सैन्टिफिक् रिसर्च् संस्थायाः अद्योगी सि पि राजेन्द्रस्य नेतृत्वे आसीत् अध्ययनं कृतम्। हिमालयमण्डलेषु वर्धिता निर्मितिः अपि परिस्थितये  प्रतिकूलतया भवन्ति इति आवेदने वदन्ति।