OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 6, 2018

 राष्ट्रस्य दीर्घतमः  रेल् रोड् उपरिमार्गः  डिसंबर् २५ दिनाङ्के उद्‌घाटयिष्यति।
     नवदिल्ली > ५ किलोमीट्टर् दीर्घितः राष्ट्रस्य दीर्घतमः  रेल् रोड् उपरिमार्गः  डिसंबर् पञ्चविंशति दिनाङ्के  प्रधानमन्त्री नरेन्द्रमोदी उद्‌घाटयिष्यति।  असम् राज्ये नदी बह्मपुत्रस्य (भारते एकः पुरुषनदी ब्रह्मपुत्रः) उपरि तिरश्चीनतया रेल् रोड् मार्गाः संयोज्य एव 'बोगी बील्' उपरिमार्गः निर्मितः। भूतपूर्व प्रधानमन्त्रिणः अटल् बिहारि वाजपेयिनः जन्मदिने एव उद्घाटनम् निश्चितम्। तस्मिन्नेव दिने गतागतः समारभ्यते। 
    देमाजी-दिब्रुगढ् जनपदयोः बन्धितः अयम् उपरिमार्गः अरुणाचलप्रदेशतः आसम् राज्यं प्रति गम्यमानेभ्यः  सुकरः भविष्यति। इदानीं ५०० किलोमीट्टर् दूरं रेल् यानेन यात्रां क्रियामाणे सन्दर्भे नूतन सुविधया दूरः १०० कि.मी  इति न्यूनः भविष्यति। तथा अरुणाचलतः चीनस्य सीमापर्यन्तं सैनिकानां यात्राऽपि सुकरी भविष्यति। ४,८५७ कोटि रूप्यकाणि भवति उपरिमार्गस्य  निर्माणव्ययः ।