OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 24, 2018

इन्डोनेष्य राष्ट्रे 'सुनामी'; २५० मरणनानि। 
  जक्कार्ता >  इन्डोनेष्याराष्ट्रे अग्निपर्वतस्फोटनानन्तरं शनिवासरे रात्रौ सञ्जाते सुनामी नामके महातरङ्गप्रवाहे २५० परं जनाः मृताः। अष्टशताधिकं जनाः आहताः। मृत्युसंख्या अधिका भविष्यतीति  सूच्यते। 
  कुप्रसिद्धस्य 'क्रकतोव' नामकस्य अग्निपर्वतस्य पोत इत्याख्यातः 'अनक् क्राकतोव' इति अग्निपर्वत एव स्फोटितः। दक्षिणसुमात्रप्रदेशे सुन्डा समुद्रधुन्यां जावाद्वीपस्य पश्चिमाग्रे च आसीत् प्रचण्डतरङ्गाः विनाशमकुर्वन्।  सुनामीसाध्यतामधिकृत्य या कापि पूर्वसूचना नासीत्। तीरं प्रति १५ आरभ्य २० पर्यन्तं मीटर् परिममितमुन्नताः वीचीमालाः उद्गताः। पञ्चशताधिकानि भवनानि, नव भोजनालयाः, ३५० नौकाः इत्यादयः भञ्जिताः। रक्षाप्रवर्तनानि अनुवर्तन्ते।