OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 29, 2018

२०२२ तमे संवत्सरे त्रयः भारतीयाः बहिराकाशं प्राप्स्यन्ति।
भारतस्य स्वप्नपद्धतिः - गगनयानम्। 
      नवदिल्ली >  चतुर्वषाभ्यन्तरे स्वकीये क्षेपणयाने बहिराकाशं प्रति पुरुषं नेतुं ऐ एस् आर् ओ संस्था सिद्धोन्मुखं तिष्ठति। २०२२ वर्षे त्रीन् भारतीयान् बहिराकाशं प्रापयितुमेव भारतीयबहिराकाशानुसन्धानव्यवस्थापनेन [ऐ एस् आर् ओ] लक्ष्यीक्रियते। सप्ताहं यावत् सञ्चारिणः बहिराकाशे भविष्यन्ति। गगनयानमिति कृतनामधेयायै अस्यै परियोजनायै दशसहस्रं कोटि रूप्यकाणि अनुज्ञितानि। 
     लक्ष्यप्राप्तिः भविष्यति चेत् मानवं बहिराकाशं प्रापयितं चतुर्थं राष्ट्रं भविष्यति भारतम् इति केन्द्रमन्त्रिणा रविशङ्करप्रसादेन निगदितम्।  गगनयानपरियोजनया ये बहिराकाशं प्राप्नुवन्ति ते 'व्योम्नोट्स्' [व्योमकीर्तिः] इति कथयिष्यन्ते। 
  भारतस्य स्वतन्त्रतादिनसन्देशे प्रधानमन्त्रिणा नरेन्द्रमोदिना परियोजनेयं प्रख्यापिता आसीत्। पूर्वं बहिराकाशं प्रति मानवसञ्चारं साधितानि राष्ट्राणि यू एस्, रूस् , चीना  च भवन्ति।