OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 26, 2018

प्रधानमन्त्रिणा नरेन्द्रमोदिना  राष्ट्रस्य सर्वप्रथमस्य बृहद् रेल-लोह-मार्ग-सेतु-बोगीबीलः राष्ट्राय समर्पितम्।
 -साक्षी चैरसिया
  नवदेहली, गुवाहाटी > प्रधानमंत्रिणा नरेन्द्रमोदिना मङ्गलवासरे देशस्य सर्वाधिक बृहद् रेल-लौह-मार्ग-सेतु-बोगीबील इत्यस्य उद्घाटनं कृतम्।  तेन सह असम राज्यस्य मुख्यमंत्री सर्वानन्द सोनोवाल: अपि उपस्थितः आसीत्। अस्य सेतोः निर्माणं असमराज्यस्य डिब्रूगढ़ क्षेत्रे जातम्। तथा च ब्रह्मपुत्र-नद्या: उत्तरी तथा दक्षिणी तटयोः योजनं भवति । सेतोः अयतिः (length) चतुर्दशमलव चतुर्नवति (4.49) किमी॰ अस्ति।  दिसम्बरमासस्य पञ्चविंशति तमे दिनाङ्के सर्वकारः "सुप्रशासन दिवसः" (Good governence day) इति आचरति। अस्मिन्नेवावसरे पूर्वप्रधानमंत्रिणा "एचडी देवगौड़ा" महोदयेन सेतोः शिलान्यासः कृतः आसीत्।  द्वयाधिकद्विसहस्रतमे वर्षे अटलबिहारीबाजपेई सर्वकारेण  सेतोः निर्माणमारम्भ: अभवत्।  सेतोः निर्माणकार्ये विंशत्यधिक-नवशतोत्तर-पञ्चसहस्रम् (5920) कोटि रुप्यकाणि व्ययमभवत्। गत षोडशवर्षेषु सेतोः निर्माणस्य पूर्णता बहुवारं निर्णीय पुनर्निर्णीता। तथा अस्मिन् सेतौ प्रथमभारवाहनं दिसम्बरमासस्य तृतीयदिनाङ्के प्राचलत्। बोगीबील  अरुणाचलप्रदेशत: सटीचीन-सीमा पर्यन्तं  विकासपरियोजनां उद्दिश्य सेतुः निर्मितः वर्तते