OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 22, 2018

सङ्गणकयन्त्रेषु सर्वकारदृष्टिः। 
नवदिल्ली  >  राष्ट्रे यस्य कस्यापि पौरस्य सङ्गणकयन्त्रं, कुशलदूरवाणी , तेषाम् अन्तर्भूतं च निरीक्षितुं दश अन्वेषणसंस्थानां कृते केन्द्र गृहमन्त्रालयेन समन्पूर्णाधिकारः दत्तः। अवश्यं चेत् सङ्गणकयन्त्राणि संग्रहीतुमपि अधिकारः दत्तः। 
  पौरस्य स्वकीयताम् उद्घुष्टस्य सर्वोच्चन्यायालयविधेः प्रख्यापनादचिरादेव कृतं सर्वकारप्रक्रमं विरुध्य विपक्षदलानि एकीभूय प्रतिषेधः कृतः। राष्ट्रे 'आरक्षकशासनस्य' उद्यमः इति विपक्षनेतारः विमर्खितवन्तः। 
   राष्ट्रस्य परमाधिकाराय अखण्डतायै सुरक्षायै विदेशराष्ट्रैः सह  सौहृदाय च विघातभूतः पूर्वोक्तविषयेषु अपराधकृत्यानां कारणभूतः वा भविष्यतीति सर्वकारस्य आशङ्का अस्ति चेत् अयमधिकारः प्रसक्तः भवतीति एतस्य सर्वकारभाष्यम्।