OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 20, 2018

आन्ध्रप्रदेशे  झंझावातस्य कारणेन  २८००० जनान्  १७८ सहायता केन्द्रं  प्रेषितम् ।
-साक्षी चौरसिया
   काकीनाडा > आन्ध्रप्रदेशस्य मन्त्रिरिणा पी॰ नारायणेन उक्तं यत् - फेथई झंझावातस्य कारणेन अष्टाविंशतिसहस्रं जनान् अष्टसप्तत्याधिक-एकशत सहायता-केन्द्रं प्रति प्रेषितम्। हुदहुद, तितली झंझावातस्य अपेक्षया फेथई झंझावातस्य गतिः अधिका नास्ति। तीरदेशघर्षणानन्तरं तस्य ताडनवेगः किञ्चित् मन्दीभूतः इति दृश्यते।  प्रभावितेषु क्षेत्रेषु शीघ्रातिशीघ्रं सहायतां प्रेषयिष्यति इति सर्वकारः  अकथयत्। एकोनविंशति ज्येष्ठाधिकारिणां  दृष्टि: समस्यानाम् उपरि अस्ति । विजयवाड़ा क्षेत्रे भूस्खलनस्य कारणेन एकः जनः मृतः।

नवनवति ग्रामेषु विद्युत् नास्ति।
मन्त्रिणा नारायणेन अवदत् यत् - झंझावातस्य कारणेन काकीनाडा स्थानसहितं आन्ध्रप्रदेशस्य नवनवति ग्रामेषु विद्युत् नास्ति। अधिकारिजनाः विद्युत् समस्यायाः समाधाने संलग्नाः। पञ्चाशताधिक स्थानेषु वृक्षपातस्य सूचना वर्तते। कर्मकराः वाहनगमनागमार्थं मार्गेषु व्यापृताः सन्तः व्यवस्थां कुर्वन्ति।

वंगसमुद्रकुक्षीतः उद्भूतेन फेथईनामक झंझावातेन सोमवासरे पञ्चपञ्चाशत् किमी॰ वेगेन आन्ध्रप्रदेशस्य गोदावर्याः नद्याः तटः  घट्टितः।  यतो हि किञ्चित् समयानन्तरं स:  झंझावात: शांत: अभवत्।  इत्यस्य गति: एकोनविंशति किमी॰ प्रति होरा एवावशिष्टा।  आंध्रप्रदेश, तेलंगाना, तमिलनाडु, ओडिशा, पूर्वी मध्यप्रदेश तथा छत्तीसगढ़े महती वृष्टिः अभवत्। बंगाले तथा झारखंडेऽपि वर्षायाः स्थितिः प्रतीयते। द्वयोः राज्ययोः शैत्ये वृद्धिः अनुभूयते ।


झंझावातस्य कारणेन चतुर्दशसहस्र हेक्टर क्षेत्रेषु सस्यावापाः नष्टाः।  षड्विंशतिसहस्र मेट्रिक् टण् उपधान्यानि अपि नष्टानि अभवन्। सर्वकारेण आन्ध्रप्रदेशे द्वाविंशतिः रेलयानानां स्थगनं कृतम्। विशाखापट्टण स्थानस्य वायुयानस्थाने विमानानां गमनागमनम् अवरुद्धम् अभवत्।  अत्र आगतानि सर्वाणि विमानानि हैदराबादं प्रति प्रेषितानि।

विद्यालयेषु द्वि-दिवसीय अवकाशः -
पूर्वगोदावर्याः जनपदे आपदं दृष्ट्वा विद्यालयानां द्वि-दिवसीय अवकाशः प्रदत्त:। आन्ध्रसर्वकारेण जनानां कृते "पीपुल फर्स्ट सिटीजन मोबाइल एप्लीकेशन" समारब्धम् ।