OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 22, 2018

सुस्थिरविकसनलक्ष्यं केरलाय हिमाचलप्रदेशाय च  सर्वश्रेष्ठपुरस्कारः। 
नवदिल्ली >  ऐक्यराष्ट्रसभायाः सहयोगेन भारतस्य 'नीति आयोग्' नामिकया संस्थया प्रकाशितायां सुस्थिरविकाससूचिकायां केरलराज्यं ६९ अङ्कैः प्रथमस्थानं प्राप्तवत्। स्वास्थ्यक्षेमौ, अनशनराहित्यं, लिङ्गसमत्वं, श्रेष्ठा शिक्षा, नूतनः उद्योगाशयः इत्येतेषु विभागेषु प्राप्तः गुणोत्कर्ष एव केरलस्य सर्वश्रेष्ठत्वस्य निदानम्। हिमाचलप्रदेशस्य तु शुद्धजलं शुचित्वं च, असमत्वन्यूनीकरणं, पर्वतीयप्रदेशेषु आवासव्यवस्थायाः संरक्षणम्, इत्येतेषु विभागेषु प्राप्तः गुणोत्कर्षः कारणमभवत्। 
   केन्द्रशासनप्रदेॉशेषु चण्डीगढेन प्रथमस्थानमवाप्तम्। सर्वश्रेष्ठत्वे तमिलनाडु राज्येन द्वितीयस्थानं प्राप्तम्।