OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 10, 2018

सार्वजनिक गतागतः सम्पूर्णतया शुल्करहितं कर्तुं लक्संबर्ग् राष्ट्रम् । 
    लक्संबर्ग्‌ सिट्टि> सार्वजनिक गतागतः सम्पूर्णतया शुल्करहितं क्रियमाणः विश्वस्य प्रप्रथमं राष्ट्रम् इति ख्यातिः    लक्संबर्ग् राष्ट्राय लभते। आगामि  ग्रीष्मकालादारभ्य रेल् बस् प्रभृतीनि लोकयानानि लक्संबर् जनेभ्यः निशुल्कम् उपयोक्तुम् शक्यते। कतिपयदिनात् पूर्वं  सावियर् बेट्टलस्य नेतृत्वे शासकपदम् आरूढः सर्वकारः एवं विशेषनिर्णयं  स्वीचकार। यूरोप् भूखण्डान्तर्गतस्य लघुराष्ट्रस्य गतागतसम्मर्दस्य परिहारं लक्ष्यीकृत्य भवति सर्वकारस्य नूतन परिष्कारःI
     फ्रान्स् जर्मनि, बेल्जियं इत्येतानि राष्ट्राणि आस्य सीमनि वर्तन्ते। लक्संबर नगरे १.१०लक्षं जनाः निवसन्ति। अस्मिन् नगरे कर्मचारि रूपेण ४ लक्षं जनाः प्रतिदिनम् आगमिष्यन्ति।