OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 25, 2018

नवाज़ शरीफाय भ्रष्टाचारस्य आरोपे सप्तवर्षस्य कारावासः I
-साक्षी चौरसिया
       इस्लामाबाद्> पाकिस्तानस्य भ्रष्टाचारविरुद्ध-न्यायालयेन (एंटी करप्शन कोर्ट) भूतपूर्व प्रधानमन्त्रिणं नवाजशरीफं भ्रष्टाचारस्य आरोपे सप्तवर्षस्य कारावासः दण्डितः। अपि च सः पञ्चविंशतिलक्षं डॉलर् (प्राय: पञ्चसप्ताधिकेकशत कोटि रुप्यकाणि) धनेन  च दण्डितः। सोमवासरे एतद्दण्डं "अल अजीजिया स्टील मिल्स" आरोपे दत्तम्। "फ्लैगशिप इन्वेस्टमेंट्स्" एतेन समन्वितः एकस्मिनारोपे सः मुक्तीकृतः। एतस्मात् पूर्वस्मिन्नैव वर्षे जुलाईमासे लन्दनदेशस्य अवेनफील्ड स्थितं चतुर्भवनैः समन्वितायां समस्यायां नवाजशरीफं दशवर्षस्यः दण्डः निर्धारितः आसीत्। अस्मिन्नपराधे इस्लामाबादस्य उच्चन्यायालयेन सितम्बरमासे एव तं दण्डान्मुक्तं कृतं तथा च तस्य दण्डः अपसारितः।