OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 19, 2018

पञ्चशतसंवत्सरात्मकस्य दुराचारस्य आध्यात्मिकाचार्यानुशासनेन अन्त्यः।
कुक्के सुब्रह्मण्यमन्दिरे अनुवर्तितः 'मडे स्नान' आचारः। 
मङ्गुरुरु  >  उडुप्पी पेजावर् मठाधिपतेः विश्वेशतीर्थाचार्यस्य अनुशासनेन  पञ्चशतवर्षात्मकं दुराचारद्वयं स्मृतिपथं गच्छति। कुक्के सुब्रह्मण्यमन्दिरे चतुर्थी पञ्चमी षष्ठी तिथिषु त्वग्रोगनिवारणार्थमिति विश्वासेन  अनुवर्तमानौ  'मडे स्नान' , '‍एडे स्नान' इत्येतौ दुराचारावेव आचार्यकल्पनया नामावशेषौ भवतः।
  ब्राह्मणभुक्तोच्छिष्टेषु नीचजातीयजनैः कुर्वाणं घूर्णनकर्म भवति 'मडे स्नान'। अस्य प्राकृतकर्मणः नवरूपमस्ति 'एडे स्नान'। अर्थात् देवप्रसादनिवेदिते पत्रे अधःस्थितानां घूर्णनम्। कर्मणिद्वे अपि निरो़धयन्नेव पेजावरमठाधिपतेः अनुशासनम्। धर्माचारेभ्यः एतादृशाः कार्यक्रमाः नापेक्षिताः इति तेनोदीरितम्। एतन्निरोधः हैन्दवतां येन केनापि प्रकारेण न बाधते इति च प्रख्यापितम्।
   २०१२ तमे वर्षे परमोन्नतनीतिपीठेन दुराचारो$यं निरुद्धो$पि गूढतया अनुवर्तमानः आसीत्! वनवासिनः 'मलक्कुटिय' विभागाः एव एतदर्थमुत्सहन्ते स्म! २०१७तमे वर्षे उच्छिष्टपत्रलोठनं नीतिपीठेन पूर्णतया निरस्तम्! किन्तु नैवेद्यपत्रलोठनम् अनुवर्तते च! एतदेव विश्वेशतीर्थाचार्यस्य उपदेशेन निरुद्धम्।