OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 9, 2018

मुख्यमन्त्री पिणरायी विजयः केन्द्रमन्त्री सुरेष्प्रभुश्च विमानाय उड्डयनानुमतिं ददतः।
कण्णूर्  अन्ताराट्रविमानपत्तनं राष्ट्राय समर्पितम्। 
कण्णूर्  >   केरलराज्यस्य चतुर्थम् अन्ताराष्ट्रविमानपत्तनं अद्य प्रभाते दशवादने राष्ट्राय समर्पितम्। अबुदाबीं प्रति सेवासन्नद्धं  'एयर् इन्डिया एक्स्प्रेस्' विमानं यदा आकाशम् उड्डयते स्म तदा उत्तरकेरलस्य विकासप्रतीक्षाः अपि  गगनपर्यन्तम् उड्डयते स्म। मुख्यमन्त्री पिणरायि विजयः तथा केन्द्र व्योमयानमन्त्री सुरेष् प्रभुश्च मिलित्वा डयनानुमतिं [फ्लाग् आफ्] दत्तवन्तौ। 
   २३००एकर् परिमिता अस्ति विमानपत्तनस्य आहत्य विस्तृतिः। ९७,०००चतु.मीटर् विस्तृतौ व्यापिते 'टेर्मिनल्' भवनसमुच्चये २४ परिशोधप्रवेशकद्वाराणि [check in counters] , यानि आवश्यानुसारं ४८ संख्यकानि कर्तुं शक्यानि विद्यन्ते। विमानानां धावनमार्गस्तु इदानीं ३०५० मीटर् दीर्घयुक्तः भवति । स तु ४,००० मी. पर्यन्तं वर्धयितुं शक्यते। अपि च आधुनिकसुविधायुक्तानि यन्त्रोपकरणानि प्रकोष्ठानि अग्निसुरक्षासुविधाः वाहनानि च अस्य विमानपत्तनस्य विशेषानि सन्ति।