तलाखत्रितयविधेयकं लोकसभामतीतम्। 
  नवदिल्ली  >  इस्लामपुरुषैः तलाखवचनं युगपदेव त्रिवारमुच्चार्य वैवाहिकबन्धनिरासः  दण्ड्यापराधं कर्तुमुद्दिश्य केन्द्रसर्वकारेण समर्पितं विधेयकं लोकसभायाम् उत्ततार। नियममुल्लंङ्ख्यमाणस्य पुरुषस्य संवत्सरत्रयाणां कारागारदण्डनमेव विधायके अपराधकत्वव्यवस्था। एकादशं विरुध्य २४५ मतदानानि स्वीकृत्य एव विधेयकं विजयपदं प्राप्तम्।
 



