OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 26, 2022

 श्रीराघवपुरं सभायोगस्य १२२९तमसंबन्धिनः  सांवत्सरीयसभा वेदभजनानि च समारब्धानि। 

  कण्णूर्> केरलस्य कण्णूर् जनपदस्थे चेरुताष़ं कण्णिश्शेरिक्काव् मन्दिरे चतुर्दिनात्मकाः वेदजप-विद्वद्सभाकार्यक्रमाः च समारब्धाः। तृश्शिवपेरूर् तेक्केमठं मूप्पिल् स्वामिनः श्रीमन्तः वासुदेवानन्द ब्रह्मानन्दभूतिवर्याः सांवत्सरीयसभायाः  दीपप्रोज्वालनमकुर्वन्। सभायोगस्याध्यक्षः बदरीनाथमन्दिरस्य भूतपूर्वः रावल्जीवर्यः ब्रह्मश्री पाच्चमंगलं श्रीधरन् नम्पूतिरिः अध्यक्षपदमावहत्। कार्यक्रमेSस्मिन् वेदस्य वैदिकसंस्कृतेश्च समग्रयोगदानमधिकृत्य दीयमानं श्रोत्रियरत्नं पुरस्कारं  तन्त्रिश्रेष्ठः ब्रह्मश्री तेक्किनेटत्तु तरणनल्लूर् पद्मनाभनुण्णि नम्पूतिरिप्पाटः यजुर्वेदाचार्याय ब्रह्मश्री अणिमंगलं सुब्रह्मण्यन् नम्पूतिरिवर्याय समर्पितवान्।

  चेरुताष़ं ग्रामसभाध्यक्षः एम् श्रीधरः, नाय्क्कर् प्रतिनिधिः कुरुमात्तूर् हरि नम्पूतिरिप्पाटः, के सि रामन् नम्पूतिरिः, रवीन्द्रनाथ पट्टत्त्, वटक्के मठं ब्रह्मस्वाध्यक्षः नीतिज्ञः पि परमेश्वरन् नम्पूतिरिः, कालटी ऋङ्गेरिमठस्य संयोजकः प्रोफ ए सुब्रह्मण्य अय्यरः, इरिङ्ङालक्कुटा यजुर्वेदपाठशालाध्यक्षः पन्तल् परमेश्वरन् नम्पूतिरिः, आलुवा तन्त्रविद्यापीठस्य कुलपतिः मण्णारशाला सुब्रह्मण्यन् नम्पूतिरिः इत्यादयः आशंसाभाषणं कृतवन्तः। सांवत्सरीयसभाकार्यक्रमाणां निर्वाहकमुख्यः डो  ओमन्नूर् चेट्टूर् कृष्णन् नम्पूतिरिः स्वागतं, सभायोगस्य पि आर् विभागस्य नेता डो  धन्या एग्डा नीलमना कृतज्ञतां च प्राकाशयताम्।