OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 18, 2022

 खत्तर् विश्वचषकः - अद्य अन्तिमस्पर्धा। 

तृतीयस्थानं क्रोयेष्या दलाय। 

दोहा> पादकन्दुकस्य विश्वकिरीटं केन धार्यते इति अद्य ज्ञातुं शक्यते। मासैकाधिकं यावत् पादकन्दुकीययुद्धानाम् अन्तिमसंगरः अद्य रात्रौ ८. ३० वादनतः [भारतीयसमयः] खत्तरे लूसैल् क्रीडाङ्कणे अर्जेन्टीना फ्रान्सयोर्मध्ये  सम्पत्स्यते। इदानींतनवीरस्य फ्रान्सस्य एषा अनुस्यूततया द्वितीया अन्तिमस्पर्धा भवति। 

  १९७८,१९८६ तमयोः वीरपदं प्राप्तः अर्जेन्टीनादलः २०१४ मध्ये अन्तिमचक्रं खेलति स्म। तदा जर्मनी वीरपदं प्राप्तवती। 

गतरात्रौ सम्पन्ने विनष्टान्तिमयोः प्रतिद्वन्द्वे क्रोयेष्यादलः मोरोक्को दलं २ - १ इति अङ्केन अभिभवं चकार।