OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, December 30, 2022

भारतस्य प्रधानमन्त्रिणः माता १०० वयसि दिवङ्गता

-पुरुषोत्तमशर्मा-

 नवदिल्ली> भारतदेशस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः माता हीराबेन-वर्या वयसः १०० तमे वर्षे अहमदाबादस्थिते चिकित्सालये निधनमुपगता। प्रधानमन्त्री मोदी अहमदाबादमुपगतः। अवधेयं यत् हीराबेन् वर्या परिचर्यमाणा एव अवर्तत। स्वास्थ्य-समस्या-कारणेन बुधवारे प्रातः ‘यू एन् मेहता इंस्टीट्यूट् ऑफ् कार्डियोलॉजी एंड् रिसर्च् सेंटर्’ इत्यत्र उपचाराय प्रस्थिता। चिकित्सालयस्य उक्तत्यनुसारं प्रधानमन्त्रिणः माता प्रातः सार्धत्रिवादने दिवं याता। 

   मातुः निधने प्रधानमन्त्रिणा दुःखं प्रकटयता लिखितं यत् "सुन्दरशताब्द्याः ईश्वरचरणेषु विरामः। मातरि मया सदैव त्रिमूर्तेः अनुभूतिः कृता। यस्याम् "एकस्याः तपस्विन्याः यात्रा निष्कामकर्मयोगिनः प्रतीकत्वं अथ मूल्यं प्रति प्रतिबद्धजीवनत्वं समाहिम् अवर्तत।"