OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 29, 2022

 कठिना हिमानी; यात्रासुविधाः शिथिलाः। 

नवदिल्ली> दिनत्रयात्मकेन अनुस्यूतेन हिमपातेन तुषारावरणेन च राजधान्यां समीपप्रदेशेषु च गमनागमनसुविधाः शिथिलाः जाताः। उपशतं रेल् यानानि स्थगितानि विलम्बितानि वा जातानि। दिल्ल्याम् इन्दिरागान्धी अन्ताराष्ट्रविमानपत्तनात् व्योमगमनागमनं शिथिलमभवत्। उपशतं विमानानि विलम्बितानि। 

  किन्तु दिल्ल्याम् उत्तरभारतस्य विविधप्रदेशेषु आवरणतुषारस्य काठिन्यं न्यूनं जातमिति पर्यावरणविभागेन बुधवासरे निगदितम्। परं शैत्यतरङ्गः शनिवासरे पुनः तीव्रतां प्राप्स्यतीति प्रोक्तमस्ति।