OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 20, 2022

 महाराष्ट्रे मुख्यमन्त्री मन्त्रिणश्च  लोकायुक्तावधौ। 

मुम्बई> महाराष्ट्रे मुख्यमन्त्रिणं अन्यान् मन्त्रिणश्च लोकायुक्तनियमस्य अवधौ आनेतुं निर्णयोSभवत्। एतदधिकृत्य विधेयकं मन्त्रिमण्डलेन अनुमोदितम्। विधानसभायाः प्रचाल्यमाने सम्मेलने विधेयकमवतार्य अनुमोदयिष्यतीति उपमुख्यमन्त्रिणा देवेन्द्रफट्नविसेन निगदितम्।

   ओडीषा, बिहारं, राजस्थानं, उत्तरप्रदेशः इत्येतानि राज्येभ्यः ऋते सर्वाणि राज्यानि लोकायुक्तनियमस्यावधौ अन्तर्भवन्ति। सामाजिकप्रवर्तकानां सेवा भ्रष्टाचारविमुक्ता भवेत् इत्याशयः एवानेन नियमेन परिकल्प्यते।