OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 24, 2022

 सिक्किमे ट्रक् यानं गभीरगर्तं पतित्वा १६ सैनिकानाम् अपमृत्युः। 

सिक्किमे दुरापन्ना ट्रक् दुर्घटना।

गाङ्टोक्> उत्तरसिक्किमस्य सेमाप्रदेशे स्थलसेनायाः ट्रक् यानं गिरितटं प्रपत्य १६ युवसैनिकाः अपमृत्युं प्रापुः। चत्वारः आहताः। मृतेषु त्रयः JCO पदीयाः भवन्ति। 

  भारत-चीनोः सीमाप्रदेश एव सेमा। शुक्रवासरे प्रभाते चाट्टणतः तुंगुं प्रति प्रस्थितेषु त्रिषु ट्रक् यानेषु अन्यतमं निम्नभूमौ  विनष्टनियन्त्रणं भूत्वा गभीरगर्तं पतदासीत्। 

  आहताः उदग्रयाने आतुरालयं नीताः। दुर्घटनायां प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्री राजनाथसिंहश्च अगाधं दुःखं प्राकाशयताम्।