OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 23, 2023

 जापानीयात् अणुनिलयात् मलिनजलं समुद्रं प्रति प्रवाहयिष्यति। श्वः प्रारम्भः।

   सुनामि दुरन्ते दुरापन्नेन क्षतिना अपचयं प्राप्तस्य फुकुषिमा अणुनिलयस्य मलिनजलं पसफिक् समुद्रं प्रवाहयितुं जापानेन निश्चितम्। १३.४ टण् जलमेव प्रवाहयिष्यति। प्रतिदिनं पञ्चलक्षं टण् जलम् इति क्रमेण प्रवाहयिष्यति। सुनामि दुरन्तस्य पश्चात् द्वादशसंवत्सरानन्तमेव तन्त्रप्रधानः निर्णयः अधिकारिणा स्वीकृतः। ५०० ओलिम्पिक् तरणकुण्डसमानजलं समुद्रं प्राप्स्यति। अणुविकिरणांशानि शोधयित्वा जलं बहिः प्रवाहयिष्यति इत्यतः परिस्थितेः हानिः न भविष्यति इति अन्ताराष्ट्रिय आणवोर्जसंस्थायाः प्रतिवेदनमस्ति।