OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 12, 2023

 भारतीयसंस्कृतिसंरक्षणाय संस्कृतसंरक्षणमनिवार्यम् - रमेश् चेन्नित्तला।


'संस्कृताध्यापकफेडरेषन'स्य आन्दोलनप्रख्यापनं सम्पन्नम्। 

अनन्तपुरी> भारतीय भाषाणां मातृरूपेण विलसन्ती, भारतीयसंस्कृतेः स्रोतः इति विख्याता संस्कृतभाषा सर्वदा सर्वथा प्रचारणीया संरक्षणीया चेति केरलराज्यस्य भूतपूर्वः गृहमन्त्री, विपक्षनेता, तथा च इदानीं विधानसभासदस्यः रमेश् चेन्नित्तला वर्यः अकथयत्। केरल संस्कृताध्यापकफेडरेषन् [K S T F] इत्यनेन संघटनेन आयोजितस्य अधिकारसंरक्षणान्दोलनस्य घोषणाम् उद्घाटनं कुर्वन् अनन्तपुर्यां भाषमाणः आसीत् रमेश् वर्यः। 

  विद्यालयानाम् निन्मानुबन्ध-कक्ष्यासु [L P विभागेषु] संस्कृताध्यापकनियुक्तिः, संस्कृतोत्सवेषु L P विभागछात्राणां भागभागित्वं, धिषणावृत्तिपरीक्षासु अधिकारिणां प्रतिलोमप्रवर्तनानि इत्यादिषु विषयेषु संघटनेन आयोज्यमानेषु अध्यापकानां छात्राणां च अधिकारसंरक्षणान्दोलनेषु जनप्रतिधिरूपेण साध्यं सर्वमपि सहकारित्वं साह्यं च तेन उद्घोषितम्। भाजपा दलस्य अनन्तपुरीजनपदाध्यक्षः वि वि राजेषः मुख्यभाषणमकरोत्। केरलस्य ५०,००० विद्यालयेषु केवलं ३,५०० विद्यालयेषु एव संस्कृताध्ययनं प्रचलन्ति इति विषयः भारतस्य सांस्कृतिकभाषा इति चिन्तने अत्यधिकं शोचनीयः इति राजेषवर्येण निरीक्षितम्। संस्कृतस्य प्रचारणाय अधिकारसंरक्षणाय च आन्दोलनकार्यक्रमाः सजीवाः वर्तन्तामिति सः निरदिशत्। भाषायाः उत्कर्षाय फेडरेषनस्य प्रवर्तनेषु केन्द्रसर्वकारस्य साह्यमपि तेन वाग्दत्तभवत्। 

 KSTF संघटनस्य राज्यस्तरीयाध्यक्षः नीलमन शङ्करः सम्मेलने आध्यक्ष्यमकरोत्। सचिवप्रमुखः सि पि सनलचन्द्रः आमुखभाषणं कृतवान्। पि पद्मनाभः, एन् एन् रामः, सि सुरेशकुमारः, एस् श्रीजुः इत्यादयः संघटननेतारः  भाषणमकुर्वन्।