OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 25, 2023

 ९९० पादोन्नत्यां निबद्धात् अयसूत्रयानात् सं लग्नौ द्वौ रक्षितौ। रक्षाप्रवर्तनानि अनुवर्तन्ते

  इस्लामबादः> पाकिस्थाने आयससूत्रयाने  (cable car) निबद्धान् यात्रिकान् रक्षितुं श्रमः अनुवर्तते। द्वौ शिशू रक्षितौ। आहत्य अष्टजनाः याने सन्ति। खैबर् पख् तुन्ख्वा प्रविश्यायां पर्वतमण्डले ९९० पादोन्नतौ एव इयं दुर्धटना। यात्रासङ्घे  विद्यमानानां मध्ये षट् जनाः विद्यालयछात्राः भवन्ति। इतरं यात्रा-सौविध्यं नास्ति इत्यतः जनाः अतित्यकायाः पारं गन्तुं अयसूत्रयानानि एव आश्रयन्ते। यानं मार्गे स्थगितम् इति दृष्टवन्तः प्रदेशवासिनः देवालयस्य उच्चभाषिणि द्वारा दुर्घटनाम् अधिकृत्य अधिकारिणं प्रतिबोधिततवन्तः।