OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 14, 2023

भारते प्रत्येकं विश्वविद्यालयेषु

'हर-घर-तिरङ्गाभियानम्’ 

समायोजितम्।

श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालयः

महर्षि पाणिनी एवं वैदिक-विश्वविद्यालयस्य कर्यक्रमाः


- डॉ.विजयगुप्ता

    ‘स्वाधीनतायाः अमृतमहोत्सवः’ इत्यस्मिन् शुभावसरे प्रत्येकं विश्वविद्यालयेषु, महाविद्यालयेषु, संस्थासु च ‘हर घर तिरङ्गा’ इति कार्यक्रमः अत्यन्तहर्षोल्लासेन समायोजितः। इत्यस्मिन्नेव क्रमे 14.08.2023 तमे दिनाङ्के नवदेहलीस्थे श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालये स्वतन्त्रतामभिलक्ष्य समायोजितेषु भिन्नभिन्नकार्यक्रमेषु ‘हर घर तिरङ्गा’ ‘विभाजनविभीषिकाप्रदर्शनी’ इति कार्यक्रमविशेषौ उत्सवरूपेणाचरितौ। तत्र माननीयकुलपतेः आध्यक्ष्ये विश्वविद्यालयस्य सर्वे आचार्याः कर्मचारिणः छात्राश्च त्रिवर्णध्वजेन सह ‘भारत माता की जय’ ‘वन्दे मातरम्’ इत्याद्युद्घोषद्वारा विश्वविद्यालयपरिसरं गुञ्जायमानं कृतम्। समेषां कृते च कुलपतिना त्रिरङ्गध्वजस्य वितरणमपि कृतं तथा च आह्वानं कृतं यत् ते स्वगृहं गत्वा राष्ट्रस्य गौरवस्य, वैभवस्य च प्रतीकं राष्ट्रध्वजं प्रसारयन्तु। 

   तत्र माननीयकुलपतिना अत्यन्तभावाभिभूतपूर्वकं स्वसम्बोधनं व्यवहृतं यत्- ‘एषः त्रिवर्णध्वजः केवलं त्रिवर्णः एव न तिष्ठेत्, एषः त्रिवर्णः मशालं भूत्वा, उत्साहस्य चिह्नं भूत्वा अस्माकं निःश्वासे सर्वदा एव तिष्ठेत्। स्वतन्त्रतां श्वसामः, राष्ट्रवादं श्वसामः, भारतीयतां श्वसामः, भारतीयसंस्कृतेः निःश्वासं कुर्मः, आगामिनां पीढीनां कृते एतानि निःश्वासाः ददामः’। तत्रैव 14.08.2023 तमे दिनाङ्के विभाजनविभीषिकस्मारकदिवसस्यावसरे विश्वविद्यालये चलचित्रमाध्यमेन प्रदर्शनीमाध्यमेन च प्रदर्शितं यत् विभाजनकाले स्वमातृभूमिं त्यक्त्वा असंख्यजनाः प्रभाविताः अभवन्, घटितहिंसायाम् असंख्यजनाः मृताः, जीविताः च शरणार्थिनः अभवन्। अस्य दुर्दिनदिनस्य स्मरणं कृत्वा माननीयः कुलपतिः विश्वविद्यालयपरिवारेण सह बलिदानीनां कृते विनयशीलेन नेत्रेण प्रणामम् अकरोत्।

महर्षि पाणिनी एवं वैदिकविश्वविद्यालयस्य कुलपतिः 
माननीयः सी  जी विजयकुमारवर्यः