OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 11, 2023

 भारतीयाः नैजर् देशं परित्यक्तव्याः - विदेशमन्त्रालयस्य निर्देशः। 

   नवदिल्ली> संघर्षभरितात् नैजर् देशात् भारतीयाः प्रत्यागन्तव्याः इति भारतस्य विदेशकार्य मन्त्रालयेन निर्दिष्टम्। नैजरस्य वातावरणं निरीक्षते इति अधिकारी अरिन्दं बाग्चिना उक्तम्। इदानीं व्योमयातायातं स्थगितम्। सीमामतिक्रम्य सञ्चारं कुर्वन्तः सुरक्षितमार्गाः अवलम्बनीयाः इति सूचना प्रसारिता अस्ति।सैनिकविपर्ययेण सैन्येन प्रशासनं गृहीतम्। नियामेयस्थाः सर्वकारीय-कार्यालयाः सैनिकैः पिहिताः।